
कृष्णः गृहे अस्ति। (kṛṣṇaḥ gṛhe asti)
Krishna is at home.
Word by word meaning and grammar notes-
कृष्णः – Krishna
कृष्ण – अकारान्त पुल्लिङ्गम् (masculine), प्रथमा विभक्तिः (nominative), एकवचनम् (singular)
गृहे – at home, in the home
गृह – अकारान्त नपुंसकलिङ्गम् (neuter), सप्तमी विभक्तिः (Locative case), एकवचनम् (Singular)
अस्ति = is
अस् धातुः , लट् लकारः (present tense), प्रथमपुरुषः (third person), एकवचनम् (singular)
प्रथमा विभक्तिः (nominative case)
Examples similar to above:
बालकः अस्ति। = There is a boy.
बालकः क्रीडति। = The boy plays.
बालकः खादति। = The boy eats.
The boy is the doer (the subject) in these sentences. In Sanskrit, the doer is written in प्रथमा विभक्तिः (nominative case).
| विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमा | बालकः | बालकौ | बालकाः |
बालकौ क्रीडतः। = Two boys play.
बालकाः खादन्ति। = The boys play.
सप्तमी विभक्तिः (locative case)
Locative case is used to convey where something is, or where something is being done.
Examples:
शिक्षकः विद्यालये अस्ति। = The teacher is in the school.
छात्रः भोजनालये अस्ति। = The student is in the dining hall.
बालकाः क्रीडाङ्गणे क्रीडन्ति। = Boys play in the playground.
गजाः वने वसन्ति। = Elephants live in the forest.
In the above, the highlighted words indicate location, and are in saptami vibhakti.
गृह — अकारान्त-नपुंसकलिङ्गम्
| विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| सप्तमी | गृहे | गृहयोः | गृहेषु |
वन — अकारान्त–नपुंसकलिङ्गम्।
| विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| सप्तमी | वने | वनयोः | वनेषु |
विद्यालय — अकारान्त-पुल्लिङ्गम्।
| विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| सप्तमी | विद्यालये | विद्यालययोः | विद्यालयेषु |
अस् धातुरूपम् , लट् लकारः (present tense)
अस् dhaatu means “to be” (“is”, “are”, “am”, etc)
(singular)
बालकः अस्ति। = There is a boy.
बालकः देवालये अस्ति। = The boy is in the temple.
बालिका अस्ति। = There is a girl.
(dual)
बालकौ स्तः। = There are two boys.
बालकौ गृहे स्तः। = (The) two boys are in the house.
(plural)
शिष्याः सन्ति। = There are (several) disciples.
बालकाः सन्ति। = There are (several) boys.
शिष्याः आश्रमे सन्ति। = (The) disciples are in the hermitage.
बालिकाः विद्यालये सन्ति। = Girls are in the school.
अस् धातुरूपम् , लट् लकारः (verb forms, present tense)
| पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | अस्ति | स्तः | सन्ति |
This completes this lesson. Hope you found it useful. More parts later.
Leave a comment